हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Vishnu Hrudaya Stotram – श्री विष्णु हृदय स्तोत्रम्


अस्य श्री विष्णु हृदय स्तोत्रस्य सङ्कर्षण ऋषिः, अनुष्टुप् त्रिष्टुप् गायत्री च यथायोगं छन्दः, श्रीमहाविष्णुः परमात्मा देवता, भगवत्प्रीत्यर्थे जपे विनियोगः

सङ्कर्षणः उवाच –
ममाग्रतस्सदा विष्णुः पृष्ठतश्चापि केशवः ।
गोविन्दो दक्षिणे पार्श्वे वामे च मधुसूधनः ॥१॥

उपरिष्टात्तु वैकुण्ठो वराहः पृथिवीतले ।
अवान्तरदिशो यास्स्युः तासु सर्वासु माधवः ॥२॥

गच्छतस्तिष्ठतो वापि जाग्रतस्स्वप्नतोऽपि वा ।
नरसिंहकृता गुप्तिः वासुदेवमयो ह्यहम् ॥३॥

अव्यक्तं चैवास्य योनौ वदन्ति
व्यक्तं तेऽहं दीर्घमायुर्गतिं च ।
वह्निं वक्त्रं चन्द्रसूर्यौ च नेत्रे
दिशश्श्रोत्रे प्राणमाहुश्च वायुम् ॥४॥

वाचं वेदा हृदयं वै नभश्च
पृथ्वी पादौ तारका रोमकूपाः ।
सांगोपांगा ह्यधिदेवता च विद्या
ह्युपस्थं ते सर्व एते समुद्राः ॥५॥

तं देवदेवं शरणं प्रजानां
यज्ञात्मकं सर्वलोक प्रतिष्ठम् ।
यज्ञं वरेण्यं वरदं वरिष्ठं
ब्रह्माणमीशं पुरुषं नमस्ते ॥६॥

आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।
ऋतेमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥७॥

महाभारतकाख्यानं कुरुक्षेत्रं सरस्वतीम् ।
केशवं गाञ्च गङ्गाञ्च कीर्तयन्नावसीदति ॥८॥

ओं भूः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ओं भुवः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ओं सुवः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ओं भूर्भुवस्सुवः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ओं प्रद्युम्नाय पुरुषाय वासुदेवाय नमो नमः ।
ओं अनिरुद्धाय पुरुषाय वासुदेवाय नमो नमः ।
ओं भवोद्भवाय पुरुषाय वासुदेवाय नमो नमः ।
ओं केशवाय पुरुषाय वासुदेवाय नमो नमः ।
ओं नारायणाय पुरुषाय वासुदेवाय नमो नमः ।
ओं माधवाय पुरुषाय वासुदेवाय नमो नमः ।
ओं गोविन्दाय पुरुषाय वासुदेवाय नमो नमः ।
ओं विष्णवे पुरुषाय वासुदेवाय नमो नमः ।
ओं मधुसूदनाय पुरुषाय वासुदेवाय नमो नमः ।
ओं त्रिविक्रमाय पुरुषाय वासुदेवाय नमो नमः ।
ओं वामनाय पुरुषाय वासुदेवाय नमो नमः ।
ओं श्रीधराय पुरुषाय वासुदेवाय नमो नमः ।
ओं हृषीकेशाय पुरुषाय वासुदेवाय नमो नमः ।
ओं पद्मनाभाय पुरुषाय वासुदेवाय नमो नमः ।
ओं दामोदराय पुरुषाय वासुदेवाय नमो नमः ।
ओं सत्याय पुरुषाय वासुदेवाय नमो नमः ।
ओं ईशानाय पुरुषाय वासुदेवाय नमो नमः ।
ओं तत्पुरुषाय पुरुषाय वासुदेवाय नमो नमः ।
ओं सत्पुरुषाय पुरुषाय वासुदेवाय नमो नमः ।
ओं प्रणवेन्द्र विष्णो शतसहस्रनेत्रे पुरुषाय वासुदेवाय नमो नमः ।

य इदं विष्णुहृदयमधीयते ब्रह्महत्यायाः पूतो भवति पतितसम्भाषणात्पूतो भवति
सुरापानात्पूतो भवति सुवर्णस्तेयात्पूतो भवति असत्यभाषणात्पूतो भवति अगम्यागमनात्पूतो भवति वृषलीगमनात्पूतो भवति अभक्ष्यभक्षणात्पूतो भवति ब्रह्मचारी सुब्रह्मचारी भवति अनेक क्रतुसहस्रेणेष्टं भवति गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति चत्वारो वेदाश्चाधीता भवन्ति सर्ववेदेषु ज्ञातो भवति सर्वतीर्थेषु स्नातो भवति. यदि कस्यचिन्नब्रूयाच्छ्वित्री भवति. अष्टौ ब्राह्मणाग् ग्राहयित्वा विष्णुलोकमाप्नोति मानसेन गतिर्भवति न नश्यति मन्त्रः यत्र यत्रेच्छेत्तत्र तत्रोपजायते स्मरति चात्मानं भगवान्महाविष्णुरित्याह ।

इति श्री विष्णुहृदयस्तोत्रम् ।


Sri Vishnu Stotras – श्री विष्णु स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.